|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.285. अध्यायः 285
Mahabharata - Vana Parva - Chapter Topics
अङ्गदेन रावणाय रामसंदंशनिवेदनपूर्वकंपुना रामसमीपागमनम् ॥ 1 ॥ वानरै रामाज्ञया लङ्काप्राकारादिविभेदनपूर्वकं राक्षसैः सह योधनम् ॥ 2 ॥ ततो रामेण स्वसेनानामवहारः ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-285-0x(2710)(26937)
प्रभूतान्नोदकेतस्मिन्बहुमूलफले वने।
सेनां निवेश्य काकुत्स्थो विधिवत्पर्यरक्षत ॥ 3-285-1(26938)
रावणः संविधं चक्रे लङ्कायां शास्त्रनिर्मिताम्।
प्रकृत्यैवदुराधर्षा दृढप्राकारतोरणा ॥ 3-285-2(26939)
अगाधतोयाः परिखा मीननक्रसमाकुलाः।
बभूवुः सप्त दुर्धर्षाः स्वादिरैः शङ्कुभिश्चिताः ॥ 3-285-3(26940)
कर्णाटयन्त्रा दुर्धर्षा बभूवुः सहुडोपलाः।
साशीविषघटायोधाः ससर्जरसपांसवः ॥ 3-285-4(26941)
मुसलालातनाराचतोमरासिपरश्वथैः।
अन्विताश्चशतघ्नीभिः समधूच्छिष्टमुद्गराः ॥ 3-285-5(26942)
पुरद्वारेषु सर्वेषु गुल्माः स्थावरजङ्गमाः।
बभूवुः पत्तिबहुलाः प्रभूतगजवाजिनः ॥ 3-285-6(26943)
अङ्गदस्त्वथ लङ्कायां द्वारदेशमुपागतः।
विदितो रराक्षसेन्द्रस्य प्रविवेशगतव्यथः ॥ 3-285-7(26944)
मध्ये राक्षसकोटीनां बह्वीनां सुमहाबलः।
शुशुभे मेघमालाभिरादित्य इव संवृतः ॥ 3-285-8(26945)
ससमासाद्य पौलस्त्यममात्यैरभिसंवृतम्।
रामसंदेशमामन्त्र्य वाग्मी वक्तुं प्रचक्रमे ॥ 3-285-9(26946)
आह त्वां राघवो राजन्कोसलेन्द्रो महायशाः।
प्राप्तकालमिदं वाक्यं तदादत्स्व सुदुर्मते। 3-285-10(26947)
अकृतात्मानमासाद्य राजानमनये रतम्।
विनश्यन्त्यनयाविष्टा देशाश्च नगराणि च ॥ 3-285-11(26948)
त्वयैकेनापराद्धं मे सीतामाहरता बलात्।
वधायानपराद्धानामन्येषां तद्भविष्यति ॥ 3-285-12(26949)
ये त्वया बलदर्पाभ्यामाविष्टेन वनेचराः।
ऋषयोहिंसिताः पूर्वंदेवाश्चाप्यवमानिताः ॥ 3-285-13(26950)
राजर्षयश्च निहता रुदत्यश्चाहृताः स्त्रियः।
तदिदं समनुप्राप्तं फलंतस्यानयस्य ते ॥ 3-285-14(26951)
हन्तास्मि त्वां सहामात्यैर्युध्यस्व पुरुषो भव।
पश्य मे धनुषो वीर्यं मानुषस् निशाचर ॥ 3-285-15(26952)
मुच्यतां जानकी सीता न मे मोक्ष्यमसि कर्हिचित्।
अराक्षसमिमं लोकंकर्ताऽस्मि निशितैः शरैः ॥ 3-285-16(26953)
इतितस् ब्रुवाणस् दूतस् परुषं वचः।
श्रुत्वा न ममृषे राजा रावणः क्रोधमूर्च्छितः ॥ 3-285-17(26954)
हङ्गितज्ञास्ततो भर्तुश्चत्वारो रजनीचराः।
चतुर्ष्वङ्गेषु जगृहुः शार्दूलमिव पक्षिणः ॥ 3-285-18(26955)
तांस्तथाङ्गेषु संसक्तानङ्गदो रजनीचरान्।
आदायैव खमुत्पत्य प्रासादतलमाविशत् ॥ 3-285-19(26956)
वेगेनोत्पततस्तस्य पेतुस्ते रजनीचराः।
भुवि संभिन्नहृदयाः प्रहारवरपीडिताः ॥ 3-285-20(26957)
संसक्तोहर्म्यशिखरात्तस्मात्पुनरवापतत्।
लङ्घयित्वा पुरं लङ्कां सुवेलस्य समीपतः ॥ 3-285-21(26958)
कोसलेन्द्रमथागम्य सर्वमावेद्य वानरः।
विशश्राम स तेजस्वी राघवेणाभिनन्दितः ॥ 3-285-22(26959)
ततः सर्वाभिसारेण हरीणां वातरंहसाम्।
भेदयामास लङ्कायाः ग्राकारं रघुनन्दनः ॥ 3-285-23(26960)
विभीषणर्क्षाधिपती पुरस्कृत्याथ लक्ष्मणः।
दक्षिणं नगरद्वारमवामृद्गाद्दुरासदम् ॥ 3-285-24(26961)
करभारुणगात्राणां हरीणां युद्धशालिनाम्।
कोटीशतसहस्रेण लङ्कामभ्यपतत्तदा ॥ 3-285-25(26962)
प्रलम्बबाहूरुकरजङ्घान्तरविलम्बिनाम्।
ऋक्षाणआं धूम्रवर्णानां तिस्रः कोठ्यो व्यवस्थिताः ॥ 3-285-26(26963)
उत्पतद्भिः पतद्भिश्च निपतद्भिश्च वानरैः।
नादृश्यत तदा सूर्यो रजसा नाशितप्रभः ॥ 3-285-27(26964)
शालिप्रसूनसदृशैः शिरीपकुसुमप्रभैः।
तरुणादित्यसदृशैः शणगौरैश्च वैनरैः ॥ 3-285-28(26965)
प्राकारं ददृशुस्ते तु समन्तात्कपिलीकृतम्।
राक्षसा विस्मिता राजन्सस्त्रीवृद्धाः समन्ततः ॥ 3-285-29(26966)
बिभिदुस्ते मणिस्तम्भान्कर्णाट्टशिखराणि च।
भग्नोन्मथितशृङ्गाणि यन्त्राणि च विचिक्षिपुः ॥ 3-285-30(26967)
परिगृह्य शतघ्नीश्च सचक्राः सगुडोपलाः।
चिक्षिपुर्भुजवेगेन लङ्कामध्येमहास्वनाः ॥ 3-285-31(26968)
प्राकारस्थाश्चये केचिन्निशाचरगणास्तथा।
प्रदुद्रुवुस्ते शतशः कपिभिः समभिद्रुताः ॥ 3-285-32(26969)
ततस्तु राजवचनाद्राक्षसाः कामरूपिणः।
निर्ययुर्विकृताकाराः सहस्रशतसङ्घशः ॥ 3-285-33(26970)
शखवर्षाणि वर्षन्तो द्रावयित्वा वनौकसः।
प्राकारं शोभयन्तस्ते परं विस्मयमास्थिताः ॥ 3-285-34(26971)
स मापराशिसदृशैर्बभूव क्षणादाचरैः।
कृतो निर्वानरो भूयः प्राकारो भीमदर्शनैः ॥ 3-285-35(26972)
पेतुः शलविभिन्नाङ्गा बहवो वानरर्पभाः।
स्तम्भतोरणभग्नाश्चपेतुस्तत्रनिशाचराः ॥ 3-285-36(26973)
केशाकेश्यभवद्युद्धं रक्षसां वानरैः सह।
नखैर्दन्तैश्च वीराणां खादतां वै परस्परम् ॥ 3-285-37(26974)
निष्टनन्तो ह्युभयतस्तत्र वानरराक्षसाः।
हतानिपतिता भूमौ न मुञ्चन्ति परस्परम् ॥ 3-285-38(26975)
रामस्तु शरजालानिववर्ष जलदो यथा।
तानिलङ्कां समासाद्य जघ्रुस्तान्रजनीचरान् ॥ 3-285-39(26976)
सौमित्रिरपि नाराचैर्दृढधन्वा जितक्लमः।
आदिश्यादिश्य दुर्गस्थान्पातयामास राक्षसान् ॥ 3-285-40(26977)
ततः प्रत्यवहारोऽभूत्सैन्यानां राधवाज्ञया।
कृते विमर्दे लङ्कायां लब्धलक्ष्योजयोत्तरः ॥ 3-285-41(26978)
इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि पञ्चाशीत्यधिकाद्विशततमोऽध्यायः ॥ 285 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-285-2 संविधं सम्यग्विद्ध्यान्त्यनया तां यात्रादिसंपत्तिम् ॥ 3-285-4 सहुडाः सोपलाश्च। हुढं मूत्राद्युत्सर्जनार्थं शृङ्गम्। उपलाः प्रक्षेप्या गोलकाः. कपाटयन्त्रदुर्धर्षा इति झ. पाठः ॥ 3-285-5 समधूच्छिष्टमुद्गराः। मधूच्छिष्टं क्षौद्रं मधु ॥ 3-285-6 गुल्माः गुप्तोपवेशनस्थानानि ॥ 3-285-7 गतव्यथो निर्भयः ॥ 3-285-9 आमन्त्र्य हेरावण इति संबोध्य ॥ 3-285-10 तदादत्स्व कुरुष्व चेति झ.पाठः ॥ 3-285-23 सर्वाभिसारः युपगत्सर्वेषामभिसारो यत्नस्तेन ॥ 3-285-24 ऋक्षाधिपतिर्जाम्बवान् ॥ 3-285-25 करभो मणिबन्धादिकनिष्ठान्तं हस्तप्रदेशस्तद्वदरुणाः ॥ 3-285-28 शणो गोणीसूत्रोपादानवीरुत् ॥ 3-285-30 कर्णस्तिर्यग्यानं तेन प्रकारेण यत्पाषाणादिविस्तरेण क्रियते तत्तद्गृहविशेषं कर्णाट्टमिति वदन्ति ॥ 3-285-36 स्तम्भतः स्तम्भैर्वानरोपात्तैः। रणे भग्ना रणभग्नाः ॥ 3-285-37 केशाकेशि अन्योन्यं केशेषु गृहीत्वा प्रवृत्तम् ॥ 3-285-38 निष्टनन्तःशब्दं कुर्वन्तः ॥ 3-285-40 आदिश्य संमुखीकृत्येत्यर्थः ॥ 3-285-41 प्रत्यवहारः शिविरंप्रति गमनम्। लब्धा आयुधैः प्राप्ता लक्ष्या वेध्यायस्मिन्नवन्ध्यप्रहार इतियावत्। जयोत्तरो जयोत्कर्षवान् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|